सामग्री पर जाएँ

समग्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समग्रः, त्रि, (समं समकालमेव गृह्णातीति । ग्रह + डः ।) सकलम् । (यथा, रामायणे । २ । ५२ । ८४ । “चतुर्द्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥”) पूर्णम् । इत्यमरः ॥ (यथा, महाभारते । १ । १५४ । १३ । “अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । सग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=समग्रः&oldid=174493" इत्यस्माद् प्रतिप्राप्तम्