समवकारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समवकारः, पुं, (समवकीर्य्यन्ते बहवोऽर्था यस्मि- न्निति । सम् + अव + कृ + घञ् ।) नाटकभेदः । यथा, -- “स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवकारो विथ्यङ्केहामृगा इति । अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता- दिकाः ॥” इति हेमचन्द्रः ॥ (तल्लक्षणादिकं यथा, -- अथ समवकारः । “वृत्तं समवकारे तु ण्यातं देवासुराश्रयम् । सन्धयो निर्व्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे ॥ सन्धी द्बावन्त्ययोस्तद्वदेक एको भवेत् पुनः । नायका द्बादशोदात्ताः प्रख्याता देवदानवाः ॥ फलं पृथक् पृथक् तेषां वीरमुख्योऽखिलो रसः । वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥ वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश । गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि च ॥ त्रिशृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः । वस्तु द्बादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥ द्बितीयेऽङ्के च तिसृभिर्द्बाभ्यामङ्के तृतीयके ॥ नाडिका षटिकाद्बयमुच्यते । बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ । तत्र । धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः । स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ॥ अचेतनैश्चेतनैश्च चेतनाचेतनैः कृतः ॥ तत्र शास्त्राविरोधेन कृतो धर्म्मशृङ्गारः । अर्थ- लाभार्थकल्पितः अर्थशृङ्गारः । प्रहसन- शृङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाङ्क एव । अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः । समववीर्य्यन्ते बह- वोऽर्था अस्मिन्निति समवकारः । यथा, समुद्र- मथनम् ।” इति साहित्यदर्पणे । ६ । ५१५ -- ५१६ ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समवकारः [samavakārḥ], A kind of drama: (thus described in S. D.: वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् । संधयो निर्विमर्शास्तु त्रयो$ङ्काः &c. 515.).
