समवायः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समवायः, पुं, (समवाय्यते इति । सम् + अव + अय + घञ् ।) समूहः । इत्यमरः ॥ (यथा, मनुः । ४ । १०८ । “अनध्यायो रुद्यमाने समवाये जनस्य च ॥”) सम्बन्धविशेषः । यथा, -- “घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः ॥” इति भाषापरिच्छेदः ॥ अवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतो- र्जातिव्यक्त्योर्नित्यद्रव्यविशेषयोच्च यः सम्बन्धः स समवाथः । इति सिद्धान्तमुक्तावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समवायः [samavāyḥ], 1 Combination, union, conjunction, aggregate, collection; तेषां समवाये एकदेशकालकतृत्वे ... एकतन्त्रत्वं भवति ŚB. on MS.12.1.1; सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः K.; बहूनामप्यसाराणां समवायो हि दुर्जयः Pt.1. 331; Bhāg.6.9.34.
A number, multitude, heap.
Close connection, cohesion; कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् MS.4.2.23.
(In Vaiś. phil.) Intimate union, constant and inseparable connection, inseparable inherence or existence of one thing in another, one of the seven categories of the Vaiśeṣikas; उक्तं समवाये पारदौर्बल्यम् MS.8.4.17; नित्यसंबन्धः समवायः Tarka K.
Conjunction of heavenly bodies; समालोक्यैकतामेव शशिनो भास्करस्य च । समवायं तु तं रौद्रं दृष्ट्वा शक्रो$न्वचिन्तयत् ॥ Mb.3. 224.16. -Comp. -संबन्धः intimate and inseparable relation.
