समवेतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समवेतः, त्रि, (सम् + अव + इण् + क्तः ।) मिलितः । यथा, -- “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ समवायसम्बन्धेन वृत्तिः । यथा, -- “यत् समवेतं कार्य्यं भवति ज्ञेयन्त समवायिजनकं तत् ।” इति भाषापरिच्छेदः ॥
