सामग्री पर जाएँ

समाधानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समाधानम्, क्ली, (सम् + आ + धा + ल्युट् ।) ब्रह्मणि मनःस्थिरीकरणम् । चित्तैकाग्रम् । तत्- पर्य्यायः । अवधानम् २ प्रणिधानम् ३ समाधिः ४ । इति हेमचन्द्रः ॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समा- धानम् । इति वेदान्तसारः ॥ इदानीं समा- धानं लक्षयति । निगृहीतस्येति । शब्दादि- विषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रवणादौ तदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधन- विषयेषु समाधिनैरन्तर्य्येण तच्चिन्तनं समा- धानमित्यर्थः । इति तट्टीकासुबोधनी ॥ (यथा, भागवते । ३ । २८ । ६ । “स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥”) पूर्व्वपक्षस्योत्तरम् । इति लोकप्रसिद्धम् ॥ (नाट- काङ्गविशेषः । यथा, साहित्यदर्पणे । ६ । ३३८ । “उपक्षेपः परिकरः परिन्यासो विजोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदः करणं मेद एतान्यङ्गानि वै मुखे ॥” तल्लक्षणादिकं यथा, तत्रैव । ६ । ३४५ । “बीजस्यागमनं यत्त तत् समाधानमुच्यते । यथा, वेणीसंहारे । नेपथ्ये भो भो विराटद्रुपदप्रभृतयः ! श्रूयताम् । ‘यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्त्तुमपीहितं शमवता शान्तिं कुलस्ये- च्छता । तद्द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुबले यौधिष्ठिरं जृम्भते ॥’ अत्र ‘सुस्था भवन्ति मयि जीवतीति’ आदि- बीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहित- त्वात् समाधानम् ॥” * ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समाधानम् [samādhānam], 1 Putting together, uniting.

Fixing the mind in abstract contemplation on the true nature of spirit; विभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः Bhāg.12.11.24.

Profound or abstract meditation, deep contemplation.

Intentness.

Steadiness, composure, peace (as of mind), satisfaction; चित्तस्य समाधानम्; समाधानं बुद्धेः G. L.18.

Clearing up a doubt, replying to the Pūrvapakṣa; answering an objection.

Agreeing, promising.

(In drama) A leading incident which unexpectdly gives rise to the whole plot.

Justification of a statement, proof.

Reconciliation.

Eagerness. -Comp. -रूपकम् a kind of metaphor (used for the justification of a bold assertion).

"https://sa.wiktionary.org/w/index.php?title=समाधानम्&oldid=396822" इत्यस्माद् प्रतिप्राप्तम्