सामग्री पर जाएँ

समाधिस्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समाधिस्थः, त्रि, (समाधौ तिष्ठतीति । स्था + कः ।) समाधियुक्तः । यथा, -- “मनः संकल्परहितमिन्द्रियार्थानचिन्तयन् । यस्य ब्रह्मणि संलीनं समाधिस्थः स कीर्त्तितः ॥ ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः । मनस्तल्लयतां याति समाधिस्थः स कीर्त्तितः ॥” इति गारुडे गीतासारे २४० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=समाधिस्थः&oldid=174635" इत्यस्माद् प्रतिप्राप्तम्