समानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समानम्, त्रि, (समानीति सम्यक्प्रकारेण प्राणि- तीति । सम् + आ + अन + ल्युः । यद्वा, समानं मानमस्य । समानस्य च्छन्दसीति सः ।) सत् । समम् । (यथा, रघुः । २ । ७४ । “भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥”) एकम् । इति मेदिनी ॥ (यथा, मनुः । ४ । ४० । “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने । समानशयने चैव न शयीत तया सह ॥” * ॥ मानेन सह वर्त्तमानमिति विग्रहे गर्व्वसहि- तञ्च । यथा, भागवते । १ । १६ । ३६ । “स्थैर्य्यं समानमहरत् मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥”)
