समानोदक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समानोदकः, पुं, (समानं एकं तर्पणकाले देय- मुदकं यस्य ।) एकोदकः । स तु ज्ञाति- विशेषः । तर्पणे समानं एकमुदकमस्य । यथा, “जारो नङ्गः सगोत्रस्तु स्वजनज्ञातिबान्धवाः । सकुल्यबन्धुदायादस्वसमानोदका अपि ॥” इति जटाधरः ॥ स तु चतुर्द्दशपुरुषपर्य्य्यन्तः जन्मनामस्मृति- पर्य्यन्तश्च । तत्र आद्यस्यैकादशपुरुषावधि- चतुर्दशपुरुषपर्य्यन्तस्याशौचं पक्षिणी द्वितीय- स्यैकाहः । यथा । उदकक्रियामधिकृत्य पार- स्करः । सर्व्वे ज्ञातयो भावयन्ति । आसप्त- माद्दशमाद्वा समानग्रामवासेन यावत् सम्बन्ध- मनुस्मरेयुर्व्वा इति भावयन्ति निष्पादयन्ति अत्र यावत् सम्बन्धमनुस्मरेयुरेककुलजाता वय- मिति स्मरणं भवतीत्यनेनैव सर्व्वेषामुदकदाने प्राप्ते यदासप्तमाद्दशमादुक्तं तत्सन्निकर्षतार- तम्येनाशौचभेदेऽप्युदककर्म्म समानार्थमिति । अशौचभेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्द- शाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथा च विष्णुबृहस्पती । “दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः ॥” ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च जन्मना- मस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा- विवादचिन्तामण्योर्ब्बृहन्मनुः । “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥ जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥” अत्र समानोदकत्वे द्विविघे पूर्व्वत्र गोतमः पक्षिणीमसपिण्डे । परत्र हारीतः । मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके इति । अत्रैव गोत्रजानामहः स्मृतमिति जावालवचनम् ततः परं सर्व्वथा समानोदकतानिवृत्तेः स्नान- मात्रमिति स्नात्वा शुध्यन्ति गोत्रजा इति बृह- स्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समानोदक¦ पु॰ समानमेकं तर्पणादौ देयमुदकं यस्य।
“स-मानोदकभावस्तु निवर्त्तेता चतुर्दशात्” इत्युक्ते एकादशा-वधिचतुर्दशपुरुषपर्य्यन्ते ज्ञातिर्भदे सपिण्डशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समानोदक¦ m. (-कः) A kinsman, one who when distinct from the Sapin4d4a is next in order and succession, and is connected by oblations of water only, to the manes of common ancestors; this relationship extends to the fourteenth in descent, i. e. the seven first or Sapin4d4as presenting water as well as the cakes, are also Sama4nodakas, whilst the seven next presenting water alone are Sama4nodakas only. E. समान common, उदक water.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समानोदक/ समानो mfn. having (only) libations of water (to ancestors) in common , distantly related (the relationship accord. to some , extending to the 14th degree , the first 7 being both स-पिण्डs and समानोदकs , while the remaining 7 are -Sam समानोदकs only) Mn. ix , 187 Kull. Sch. VP. RTL. 286
