समालम्भनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समालम्भनम्, क्ली, (सम् + आ + लम्भ + ल्युट् ।) कुङ्कुमादिविलेपनम् । तत्पर्य्यायः । विच्छित्तिः २ कषायः ३ । इति त्रिकाण्डशेषः ॥ समालम्भः ४ विलेपनम् ५ । इत्यमरः ॥ (यथा, रामायणे । ४ । २६ । २८ । “समालम्भनमादाय गोरचनमनःशिलाम् । आजग्मुखत्र मुदिता वराः कन्याश्च षोडश ॥”) सम्यङ्मारणम् । सम्यक्स्पर्शनम् । यथा । अत ऊर्द्ध्वमसमालम्भनमादशरात्रादिति गोभिल- सूत्रम् ॥
