समावर्त्तन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावर्त्तनम्, क्ली, (सम् + आ + वृत् + ल्युट् ।) वेदाध्ययनानन्तरं गार्हस्थाधिकारप्रयोजकं कर्म्म । यथा । “अथ समावर्त्तनम् । ज्योतिषे । ‘भौमभानुजयोर्व्वारे नक्षत्रे च व्रतोदिते । ताराचन्द्रविशुद्धौ च समावर्त्तनमिष्यते ॥’ गोभिलः । अथाप्लवनम् । अथ व्रतानन्तर- माप्लवनं स्नानं कुर्य्यादिति शेषः । उत्तरतः पुरस्तादाचार्य्यकुलस्य परिव्रतं भवति । आचार्य्यगृहादुत्तरस्यां पूर्ब्बस्यां वा स्नानार्थ- मावृतं स्नानं कुर्य्यात् । अत्र प्रागग्रेषु दर्भेषु उदगाचार्य्य उपविशति तत्रावृते उदक् उदङ्मुखः प्राक् ब्रह्मचार्य्युदगग्रेषु दर्भेषु । प्राक् प्राङ्मुख उपविशतीत्यन्वयः । सर्व्वौषधि- विर्फाण्डाभिरद्भिर्गन्धवतीभिः शीतोष्णाभिरा- चार्य्योऽभिषिञ्चेत् । सर्व्वौषधयश्च । ‘व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः । यवाश्चौषधयः सप्त विपदो घ्नन्ति धारिताः ॥’ इति छन्दोगपरिशिष्टोक्तास्ताभिः सह या आपो विर्फाण्डा विपक्वा उष्णीकृतास्ताः सर्व्वौ- षधिविर्फाण्डास्ताभिर्गन्धवतीभि-श्चन्दनादि-गन्ध- द्रव्ययुक्ताभिः शीतोष्णाभिः शीतोदकमिश्रि- ताभिरिति भट्टभाष्यम् ॥ स्वयमिव तु मन्त्रवर्णो भवति । इवशब्द एवार्थे । स्वयमेव ब्रह्मचारी अत्मानमभिषिञ्चेत् । आचार्य्यकर्त्तृकाभिषेकस्तु परमतो यतो मन्त्रवर्णा भवन्ति । मन्त्रवर्णः अभिषेकमन्त्रलिङ्गं तच्च तेनाहं मामभिषिञ्चामि इति तेन मामभिषिञ्चितमिति च । तद्विधि- माह । येऽप्स्वन्तरग्नयः प्रविष्टा इत्यपामञ्जलि- मवसिञ्चति । येऽप्स्वन्तरग्नय इति मन्त्रेण कासामपामञ्जलिं ब्रह्मचारी अवसिञ्चति । क्व भूमौ कुतः अवसिञ्चति वचनात् । तन्मन्त्रस्था- भिहितान् सृजामीति यदपामिति मन्त्रस्याभि- हितान् सृजामि इति मन्त्रलिङ्गद्वयाच्च सर्व्वा- स्पते इत्यादिमन्त्रस्य चतुर्थपादेनातिष्ठति । उप- विशति प्राग्वा उदग्वाभिप्रयाय प्रदक्षिण- मावृत्या उपयाति । तेन रथेन प्राङ्मुखो वा प्रयाय प्रकर्षेण गत्वा उपयाति आचार्य्य- समीपमागच्छति उपयातायार्घ्यमिति कोह- नीयाः । उपयातायाचार्य्यसमीपमागतायार्घ्यं देयमिति कोहनीया आचार्य्या आहुः । रथा- भावेऽपि मन्त्रपाठाचारः । चरुकरणे तण्डुला- दाववघातादिवत् । अस्य कर्म्मणः समावर्त्तन- संज्ञापि । ‘गुरुणानुमतः स्नात्वा समावर्त्तो यथाविधि । उद्वहेत द्विजो भार्य्यां सवर्णां लक्षणान्विताम् ॥’ इति मनूक्तेः ॥ स्पष्टं शौनककारिकायाम् । कुर्व्वीत स्वयमेवैतत् समावर्त्तनसंज्ञकम् ।” इति संस्कारतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावर्त्तन¦ न॰ समावर्त्तते गुरुकुलादनेन सम् + आ + वृत-करणे ल्युट्। वेदाध्ययनानन्तरं गार्हस्थ्याय गुरुकुला-दागमनहेतुके संस्कारभेदे तद्विधिः संस्कारतत्त्वे गोभि-लोक्तो दृश्या।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावर्त्तन¦ n. (-नं) A pupil's return home after finishing his religious studies. E. सम् and आङ् before वृत् to be, ल्युट् aff.
