समावृत्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्तः, पुं, (सम् + आ + वृत् + क्तः ।) वेदा- ध्ययननिवृत्तः । तत्पर्य्यायः । लब्धानुज्ञः २ । इत्यमरः ॥ साङ्गवेदाध्ययनानन्तरं त्वमिदानीं गृहस्थो भव इति गार्हस्थ्याय प्राप्तानुमतिः समावृत्त उच्यते । समावर्त्तते अध्ययनान्निवर्त्तते इति समाङ्पूर्व्वात्वृतेः कर्त्तरि क्ते समावृत्तः । इति भरतः ॥ “अतः परं समावृत्तः कुर्य्याद्दारपरिग्रहम् ।” इति उद्वाहतत्त्वञ्च ॥ * ॥ तस्य सर्व्वाशौचे मुण्डनं यथा अशौचाधिकारे आपस्तम्बः । अनुभाविनाञ्च परिवापनमिति । अनुभाविनां स्वाशौचमनुभवतां समावृत्तानां सर्व्वाशौचे मुण्डनम् । यत् पुनरापस्तम्बः । न समावृत्ता वपेयुरन्यत्र वीहारादित्येके । वीहा- रात् दर्शपौर्णमासाङ्गयागविशेषादन्यत्र समा- वृत्ता गृहस्था न वपेयुः । इत्येकेषां मतम् । तत् काम्यपरम् । इति शुद्धितत्त्वम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्त पुं।
गुरुकुलवासान्निवृत्तः
समानार्थक:समावृत्त
2।7।10।2।1
अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः। लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते॥
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्त¦ पु॰ सम् + आ + वृत--क्त। कृतसमावर्त्तनसंस्कारे
“अतःपरं समावृत्तः कुर्य्याद्दारपरिग्रहम्” याज्ञ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्त¦ m. (-त्तः) A pupil who has completed his studies and taken leave of his preceptor. E. सम् and आङ् before वृत् to be, aff. क्त; also with कन् added, समावृत्तक |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्त [samāvṛtta], p. p.
Completed, finished.
Returned.
See उपनीत; स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत Mb.1.3.81 (com. समावृत्तो मेखलाजिनादि ब्रह्मचर्याश्रमलिङ्गं त्यक्त्वा स्नातकत्वं प्राप्तः)
Assembled; ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः Mb.3.283.14.
समावृत्तः [samāvṛttḥ] समावृत्तकः [samāvṛttakḥ], समावृत्तकः A pupil who has returned home after finishing his course of holy study.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समावृत्त/ सम्-आवृत्त mfn. turned back , returned ( esp. as described above ) Mn. MBh. etc.
समावृत्त/ सम्-आवृत्त mfn. approached , come from( comp. ) MBh. Ka1v. etc.
समावृत्त/ सम्-आवृत्त mfn. completed , finished MBh. i , 3256