समासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समासः, पुं, (सम् + अस् + घञ् ।) संक्षेपः । (यथा, मनुः । ७ । २०२ । “सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्बंश्यं कुर्य्याच्च समयक्रियाम् ॥”) समर्थनम् । इति मेदिनी ॥ समाहारः । इति हलायुधः ॥ एकपद्यम् । इति हेमचन्द्रः ॥ सम- सनं पदयोः पदानां वा एकपदीकरणं समासः । इति संक्षिप्तसारव्याकरणम् ॥ स च षड्विधः । द्वन्द्बः १ बहुव्रीहिः २ कर्म्मधारयः ३ तत्पुरुषः ४ द्विगुः ५ अव्ययीभावः ६ । तेषां लक्षणं यथा । भिन्नान्यैकार्थद्व्यादिसंख्याव्यादीनां च-ह- य-ष-ग-वाः । इति मुग्धबोधव्याकरणम् ॥ * ॥ अपि च । “नाम्नां समासो युक्तार्थस्तत्स्था लोप्या विभ- क्तयः ॥” इति वैयाकरणाः ॥ तस्य समान्यलक्षणं यथा । अभिधानाश्रितलोपाभाववदन्यमध्यवर्त्तिविभक्ति- शून्यनाम-समुदायत्वं समासत्वम् । तत्र कर्म्म- धारय-द्बिगुतत्पुरुष-बहुव्रीहि-द्बन्द्बाव्ययीभावाः षट् समासा भवन्ति । तत्र कर्म्मधारयत्वं समास- नियतलक्षणाशून्यासंज्ञास्थसंख्यावाचक पूर्व्वपद- कान्यमध्यवर्त्तिविभक्तिशून्यतुल्याधिकरणपदसमु- दायत्वम् । यथा नीलोत्पलमित्यादि ॥ १ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समासः [samāsḥ], 1 Aggregation, union, composition.
Composition of words, a compound; (the principal kinds of compounds are four: द्वन्द्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q. q. v. v.).
Reconciliation, composition of differences.
A collection, an assemblage; यद्वविज्ञात- मिवाभूदित्येतासामेव देवतानां समासः Ch. Up.6.4.7.
Whole, totality.
Contraction, conciseness, brevity; एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् Avimārakam 2; एष समासः, अद्यास्मि महासेनः Pratijñā.2.
Euphonic combination (संधि).
Completion, end; L. D. B. (समासेन, समासतः means 'in short', 'briefly', 'succinctly'; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25;3.2; इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः Bg.13.18; समासतः श्रूयताम् V.2.)-Comp. -अध्याहारः supplying an ellipsis in a compound.-अर्था a part of a stanza proposed to be completed (= समस्या q. v.). -उक्तिः f. a figure of speech thus defined by Mammaṭa: परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः K. P.1.
