समित्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समित्, स्त्री, (समीयतेऽत्रेति । सम् + इण् + क्विप् ।) युद्धम् । इत्यमरः ॥ (यथा, महा- भारते । ५ । २२ । २३ । “पाण्ड्यश्च राजा समितीन्द्रकल्पो युधि प्रवीरैर्बहुभिः समेतः ॥”)
समित्, [ध्] स्त्री, (समीध्यतेऽनयेति । इन्ध + क्विप् ।) अग्निसन्दीपनार्थतृणकाष्ठादिः । तत्- पर्य्यायः । इन्धनम् २ एधम् ३ इध्मम् ४ एधः ५ । इत्यमरः ॥ समिन्धनम् ६ । एतस्मिन् सूक्ष्मे किलिञ्जम् । इति शब्दरत्नावली ॥ * ॥ होमीयसमिल्लक्षणं मत्स्यपुराणे । “प्रादेशमात्राः सशिखाः सवल्काश्च पला- सिनीः । समिधः कल्पयेत् प्राज्ञः सर्व्वकर्म्मसु सर्व्वदा ॥” लक्षणान्तरं यथा, छन्दोगपरिशिष्टम् । “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्तत्वचा चैव न सकीटा न पाटिता ॥ प्रादेशात् नाधिका नोना न तथा स्याद्विशा- खिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥” इति संस्कारतत्त्वम् ॥ * ॥ तस्य निषिद्धलक्षणं यथा, -- “विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्विधा- कृताः । कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥” अत्र दोषो यथा, -- “विशीर्णयुःक्षयं कुर्य्याद्बिदला पुत्त्रनाशिनी । ह्स्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी ॥ कृमिद्ष्टा रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी ॥” इति तन्त्रम् ॥ * ॥ नवग्रहाणां समिधो यथा, -- “अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः । उडुम्बरः शमी दूर्व्वाः कुशाश्च समिधः क्रमात् ॥” इति संस्कारतत्त्वे याज्ञवल्क्यवचनम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समित् स्त्री।
यागादौ_हूयमानकाष्ठम्
समानार्थक:एध,समित्
2।4।13।1।7
काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
समित् स्त्री।
युद्धम्
समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व
2।8।106।1।5
समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥
अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्
वृत्तिवान् : रथारूढयोद्धा,योद्धा
: बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समित्¦ स्त्री समीयतेऽत्र सम् + इण्--आधारे क्विप्। युद्धे अमरः
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समित्¦ f. (-मित्) War, battle. E. सम् together, इण् to go, aff. क्विप्, and तुक् final augment.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समित्/ सम्-इत् f. (for समित्See. below) hostile encounter , conflict , battle , war MBh. Ka1v. etc.
समित् in comp. for समिध्(for सम्-इत्See. above ).
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--Kalkaleya; a variety. वा. ७५. ७४.