सामग्री पर जाएँ

समिध्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समित्, [ध्] स्त्री, (समीध्यतेऽनयेति । इन्ध + क्विप् ।) अग्निसन्दीपनार्थतृणकाष्ठादिः । तत्- पर्य्यायः । इन्धनम् २ एधम् ३ इध्मम् ४ एधः ५ । इत्यमरः ॥ समिन्धनम् ६ । एतस्मिन् सूक्ष्मे किलिञ्जम् । इति शब्दरत्नावली ॥ * ॥ होमीयसमिल्लक्षणं मत्स्यपुराणे । “प्रादेशमात्राः सशिखाः सवल्काश्च पला- सिनीः । समिधः कल्पयेत् प्राज्ञः सर्व्वकर्म्मसु सर्व्वदा ॥” लक्षणान्तरं यथा, छन्दोगपरिशिष्टम् । “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्तत्वचा चैव न सकीटा न पाटिता ॥ प्रादेशात् नाधिका नोना न तथा स्याद्विशा- खिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥” इति संस्कारतत्त्वम् ॥ * ॥ तस्य निषिद्धलक्षणं यथा, -- “विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्विधा- कृताः । कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥” अत्र दोषो यथा, -- “विशीर्णयुःक्षयं कुर्य्याद्बिदला पुत्त्रनाशिनी । ह्स्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी ॥ कृमिद्ष्टा रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी ॥” इति तन्त्रम् ॥ * ॥ नवग्रहाणां समिधो यथा, -- “अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः । उडुम्बरः शमी दूर्व्वाः कुशाश्च समिधः क्रमात् ॥” इति संस्कारतत्त्वे याज्ञवल्क्यवचनम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समिध्¦ स्त्रा समिन्धतऽनया सम् + इन्ध--करणे क्विप्।

१ काष्ठे

२ होमीयकाष्ठभेदे च तल्लक्षणं छन्दोग॰
“नाङ्गुष्ठादधिकानोना समित् स्थूलतया क्वचित्। न निर्मुक्तत्वचाचैव न मकीटा न पाटिता। प्रादेशान्नाधिका नोनान तथा स्याद्विशाखिका। न सपत्रा न निर्वीर्य्या हेमेषुच विजानता” इति। तस्य निषिद्धलक्षणं यथा
“विशीणां विदला ह्रस्वा वक्राः स्थूला द्विधाकृताः। कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत्” तत्र दोमोयथा
“विशीर्णायुःक्षयं कुर्य्याद्विदला पुत्रनाशिनी। ह्रस्वानाशयते पत्नीं वक्रा बन्धुविनाशिनी कृमिदष्टा रोग-करी विद्वेषकरणी द्विधा। पशून् मारयते दीर्घास्थूला चार्थविनाशनी” तन्त्रसा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समिध्¦ f. (-मित् or मिद्) Fuel, wood, grass, &c. so employed. E. सम् to- gether, इन्धि to kindle or inflame, क्विप् aff., and the nasal rejected.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समिध् [samidh], f. (समित् or समिद् in comp.) Wood, fuel; विलापदुःखसमिधो रुदिताश्रुहुताहुतिः Rām.2.24.6; 6; especially fuel or sacrificial sticks for the sacred fire; समिदाहरणाय प्रस्थिता वयम् Ś.1; तत्राग्निमाधाय समित्समिद्धम् Ku.1.57;5. 33. -Comp. -आधानम् the placing on of fuel (as oblation); (कुर्यात्) समिदाधानमेव च Ms.2.176.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समिध् mfn. igniting , flaming , burning RV.

समिध् f. firewood , fuel , a log of wood , faggot , grass etc. employed as fuel (7 समिध्s , or sometimes 3 x 7 are mentioned , as well as 7 योनिs , 7 flames etc. ) RV. etc.

समिध् f. kindling , flaming RV. VS. S3Br.

समिध् f. = समिद्-आधानS3rS.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समिध् स्त्री.
(सम् + इन्ध् + क्विप्) अगिन्-समिधा अथवा काठ के लट्ठे, 21 इध्मों का भाग, जिससे ‘सामिधेनियों’ के वाचन के समय अगिन् का पोषण किया जाता है, आप.श्रौ.सू. 2.12.4. तीन विशेष समधिायें होती हैं ः दो आघार के लिए एवं एक अनुयाज के लिए, 1.5.11; तीन छड़ियां जिनसे ‘ब्रह्मौदन’ का विलोडन किया जाता है, भी ‘समिध्’ कही जाती हैं। पत्ते से युक्त सूखी छड़ियां, एक बीता लम्बी, 5.5.1० (आधेय); शां.श्रौ.सू. 1.12.12; 2.12.8; मा.श्रौ.सू. 1.2.6.1०। समिधः कृत्वा समिधाओं को एकत्रित कर, भा.श्रौ.सू. 7.23.4 (काशिकर); (हृदयशूल के पश्चात् पशु-याग)।

"https://sa.wiktionary.org/w/index.php?title=समिध्&oldid=480788" इत्यस्माद् प्रतिप्राप्तम्