समीपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समीपः, त्रि, (सङ्गता आपो यत्र । “ऋक् पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः । “द्ब्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९७ इति ईत् ।) निकटः । इत्यमरः ॥ (क्लीवेऽपि दृश्यते । यथा, मनुः । २ । १०४ । “अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥”)
