समुत्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुत्थः, त्रि, (समुत्तिष्ठतीति । सं + उत् + स्था + कः ।) समुद्भवः । समुत्थितः । समुत्- पूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः । ७ । ४५ । “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत् ॥”)
