सामग्री पर जाएँ

समुदयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समुदयम्, क्ली, (सम् + उत् + इण् + अच् ।) लग्नम् । यथा, -- “सामर्थ्यं तनु कल्यते समुदये वित्तं कुटुम्बं ततो विक्रान्तिं सहजं तृतीयभवने योधञ्च सञ्चि- न्तयेत् ।” इत्यादि ज्योतिस्तत्त्वम् ॥ षण्णाडीचक्रान्तर्गतचतुर्थनाडी । सा तु जन्म- नक्षत्रावधिकाष्टादशनक्षत्ररूपा । तत्पर्य्यायः । सामुदायिकम् २ । यथा, ज्योतिस्तत्त्वे । “जन्मर्क्षं कर्म्म ततो दशमं सांघातिकं षोडशभम् । समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥ सन्तप्ते सामुदायिके मित्रभूत्यर्थसंक्षयः ॥”

"https://sa.wiktionary.org/w/index.php?title=समुदयम्&oldid=174805" इत्यस्माद् प्रतिप्राप्तम्