समुद्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्गः, पुं, (समुद्गच्छतीति । सम् + उत् + गम् + अन्येष्वपीति डः ।) सम्पुटकः । इति हेम- चन्द्रः ॥ (यथा, रामायणे । २ । ९१ । ७५ । “शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥” मुद्गेन सह वर्त्तमानः ।) मुद्गसहितश्च ॥
