समुद्धृतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्धृतम्, त्रि, (सम् + उत् + हृ + क्तः ।) समुत्- कीर्णम् । अपनीतम् । इति मेदिनी ॥ सम्यक्- प्रकारेण उद्धृतम् । उत्थापितम् । यथा, -- “जलौघमग्ना सचराचरा धरा विषाणकोठ्याखिलविश्वमूर्त्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयम्भुर्भगवान् प्रसीदतु ॥” इति पाण्डवगीता ॥
