समुद्रफेनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रफेनः, पुं, (समुद्रस्य फेनः ।) स्वनामख्यात- द्रव्यम् । तत्पर्य्यायः । फेनः २ अब्धिकफः ३ अर्णवजमलः ४ । इति रत्नमाला ॥ हिण्डीरः ५ । इत्यमरः । २ । ९ । १०५ ॥ समुद्रकफः ६ जलहासः ७ फेनकः ८ । इति त्रिकाण्डशेषः ॥ समुद्रफेनम् ९ फेनम् १० वार्द्धिफेनम् ११ पयोधिजम् १२ सुफेनम् १३ अब्धिहिण्डीरम् १४ सामुद्रम् १५ । अस्य गुणाः । शिशिरत्वम् । कषायत्वम् । नेत्ररोगकफकण्ठामयारुचिकर्णरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः । कषायो विषपित्तघ्नः कर्णरुक्कफहृल्लघुः ॥” इति भावप्रकाशः ॥
