समुद्रयानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रयानम्, क्ली, (समुद्रस्य यानम् ।) पोतम् । जाहाज इति भाषा । यथा, -- “पुनस्तत्रैव गमने बणिग्भावे मतिर्गता । समुद्रयाने रत्नानि महामौल्यानि साधुभिः । रत्नपारीक्षकैः सार्द्धमानयिष्ये बहूनि च ॥ एवं निश्चित्य मनसा महासार्थपुरःसरः । समुद्रयायिभिर्लोकैः संविदं सूच्य निर्गतः ॥” इत्युपक्रम्य । “शुकेन सह संप्राप्तो महान्तं लवणार्णवम् । पोतारूढास्ततः सर्व्वे पोतवाहैरुपोषिताः ॥” इति वाराहे गोकर्णमाहात्म्यनामाध्यायः ॥ (समुद्रगमनम् । यथा, मनुः । ८ । १५७ । “समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥”)
