समुद्रलवण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रलवणम्, क्ली, (समुद्रजातं लवणम् ।) समुद्र- जलजातलवणम् । करकच् लवण इति भाषा । तत्पर्य्यायः । सामुद्रकम् २ सामुद्रम् ३ शिवम् ४ वशिरम् ५ सारोत्थम् ६ अक्षीवम् ७ लवणा- ब्धिजम् ८ । अस्य गुणाः । लघुत्वम् । हृद्यत्वम् । पलितास्रपित्तदत्वम् । विदाहित्वम् । कफवात- घ्नत्वम् । दीपनत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च, भावप्रकाशे । “सामुद्रं यत्तु लवणमक्षीवं वशिरञ्च तत् । सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु ॥ नात्युष्णं दीपनं भेदि अक्षारमविदाहि च । श्लेष्मलं वातनुत्तिक्तमरूक्षं नातिशीतलम् ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रलवण¦ न॰ समुद्रजलजातं लवणम्। (करकच) सामुद्रेलवणे राजनि॰।
“सामुद्रं यत्तु लवणमक्षीवं वशिरंच तत्। सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु। नात्युष्णं दीपनं भेदि व्यक्षीवमविदाहि च। श्लेष्मलंवातनुत्तिक्तमरूक्षं नातिशीतलम्” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रलवण¦ n. (-णं) Sea-salt. E. समुद्र the sea, and लवण salt.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रलवण/ सम्-उद्र--लवण n. sea-salt L.