सामग्री पर जाएँ

समुद्रलवणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समुद्रलवणम्, क्ली, (समुद्रजातं लवणम् ।) समुद्र- जलजातलवणम् । करकच् लवण इति भाषा । तत्पर्य्यायः । सामुद्रकम् २ सामुद्रम् ३ शिवम् ४ वशिरम् ५ सारोत्थम् ६ अक्षीवम् ७ लवणा- ब्धिजम् ८ । अस्य गुणाः । लघुत्वम् । हृद्यत्वम् । पलितास्रपित्तदत्वम् । विदाहित्वम् । कफवात- घ्नत्वम् । दीपनत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च, भावप्रकाशे । “सामुद्रं यत्तु लवणमक्षीवं वशिरञ्च तत् । सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु ॥ नात्युष्णं दीपनं भेदि अक्षारमविदाहि च । श्लेष्मलं वातनुत्तिक्तमरूक्षं नातिशीतलम् ॥”

"https://sa.wiktionary.org/w/index.php?title=समुद्रलवणम्&oldid=174856" इत्यस्माद् प्रतिप्राप्तम्