सामग्री पर जाएँ

समूहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समूहः, पुं, (समूह्यते इति । सम् + ऊह + घञ् ।) अनेकः । तत्पर्य्यायः । निवहः २ व्यूहः ३ सन्दोहः ४ विसरः ५ व्रजः ६ स्तोमः ७ ओघः ८ निकरः ९ व्रातः १० वारः ११ संघातः १२ सञ्चयः १३ समुदायः १४ समुदयः १५ सम- वायः १६ चयः १७ गणः १८ संहतिः १९ वृन्दम् २० निकुरम्बम् २१ कदम्बकम् २२ । इत्यमरः । २ । ५ । ३९-४० ॥ पूगः २३ सन्नयः २४ स्कन्धः २५ निचयः २६ जालम् २७ अग्रम् २८ पटलम् २९ काण्डम् ३० मण्डलम् ३१ चक्रम् ३२ । इति जटाधरः ॥ विस्तरः ३३ उत्- कारः ३४ समुच्चयः ३५ आकरः ३६ प्रकरः ३७ संघः ३८ प्रचयः ३९ जातम् ४० । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । २२१ । “एवं दण्डविधिं कुर्य्याद्धार्म्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

समूहः [samūhḥ], 1 A multitude, collection, an assemblage, aggregate, number; जनसमूहः, विन्नसमूहः, पदसमूहः &c.

A flock, troop. -Comp -क्षारकः, -गन्धः civet.

"https://sa.wiktionary.org/w/index.php?title=समूहः&oldid=400720" इत्यस्माद् प्रतिप्राप्तम्