सम्पाकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्पाकः, पुं, (सम्यक् पाको यस्य ।) आरग्वध- वृक्षः । इत्यमरः । २ । ४ । २३ ॥ (यथा, सुश्रुते उत्तरतन्त्रे ६१ अध्याये । “सम्पाकश्रेयसीसप्तपर्ण्यपामार्गपीलुभिः ॥”) सम्यक्पाकश्च ॥
सम्पाकः, त्रि, (सम्यक् पाको यस्य ।) तर्क्ककः । धृष्टः । इति मेदिनी ॥ अल्पः । लम्पटः । इति धरणिः ॥
