सामग्री पर जाएँ

सम्पातिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्पातिः, पुं, अरुणपुत्रः । स च जटायुषोऽग्रजो भ्राता । यथा, रामायणे । ४ । ५६ । २ । “सम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः । भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः ॥” (यथा च तत्रैव गरुडवाक्ये । ३ । १४ । ३२ । “द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च । तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः ॥” यथाच महाभारते । १ । ६६ । ७० । “अरुणस्य भार्य्या श्येनी तु वीर्य्यवन्तौ महा- बलौ । सम्पातिं जनयामास वीर्य्यवन्तं जटायुषम् ॥” तथा तत्रैव । ३ । २७८ । १ । “सखा दशरथस्यासीत् जटायुररुणात्मजः । गृध्रराजो महावीरः सम्पातिर्यस्य सोदरः ॥” अस्य पक्षदहन-विररणम् । यथा, रामायणे । ४ । ५८ । ४ -- ७ । “पुरा वृत्रवधे वृत्ते स चाहञ्च जयैषिणौ । आदित्यमुपयातौ खे ज्वलन्तं रश्मिमालिनम् ॥ आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम् । मध्यं प्राप्ते तु सूर्य्ये तु जटायुरवसीदति ॥ तमहं भ्रातरं दृष्ट्वा सूर्य्यरश्मिभिरर्द्दितम् । पक्षाभ्यां छादयामास स्नेहात् परमविक्लवम् ॥ निर्दग्धपक्षः पतितो बिन्ध्येऽहं वानरर्षभाः । अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये । जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा ॥”)

"https://sa.wiktionary.org/w/index.php?title=सम्पातिः&oldid=174943" इत्यस्माद् प्रतिप्राप्तम्