सामग्री पर जाएँ

सम्पुटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्पुटः, पुं, (सं + पुट् + कः ।) कुरुवकः । इत्यजयः ॥ पेटा । इति हेमचन्द्रः ॥ एकजा- तीयोभयमध्यवर्त्ती । यथा, तन्त्रसारः । “सकामः संपुटो जप्यो निष्कामः संपुटंविना ।” तथा च तत्रैव । “केवलां मातृकां कृत्वा मातृका तारसंपुटा । मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥” रतिबन्धविशेषः । तल्लक्षणं यथा, -- “संप्रसार्य्योभयोः पादौ शय्यागतकपोलकः । भगलिङ्गस्य संयोगात् रमते संपुटो हि सः ॥” इति रतिमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=सम्पुटः&oldid=174957" इत्यस्माद् प्रतिप्राप्तम्