सामग्री पर जाएँ

सम्पूर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्पूर्णः, पुं, (सं + पॄ + क्तः ।) रागस्य जाति- विशेषः । स तु सप्तस्वरमिश्रितरागिण्यः । यथा, “औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः । सम्पूर्णः सप्तभिः प्रोक्तो रागजातिस्त्रिधा मता ॥” इति सङ्गीतरत्नाकरः ॥ अपि च । सम्पूर्णस्वराः सा ऋ ग म प ध नि । सम्पूर्णरागाः सप्तभिः स्वरैर्यथा । नाट- वसन्तादयः । इति सङ्गीतदामोदरः ॥

"https://sa.wiktionary.org/w/index.php?title=सम्पूर्णः&oldid=174962" इत्यस्माद् प्रतिप्राप्तम्