सम्प्रतिपत्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रतिपत्तिः, स्त्री, (सं + प्रति + पद् + क्तिन् ।) उत्तरविशेषः । यथा, -- “मिथ्यासंप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्राङ्न्यायाश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्र- वेदिभिः ॥ श्रुत्वाभियोगं प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः स्याच्छास्त्रविद्भिरुदाहृता ॥” अभियुज्यते अभियोगः । प्रतिपद्यते अङ्गी- करोति । तं साध्यार्थम् । इति व्यवहारतत्त्वम् ॥ (सौमनस्यम् । यथा, माघे । १९ । ३८ । “न तस्थौ भर्त्तृतः प्राप्तमानसम्प्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥”)
