सम्प्रदान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदानम्, क्ली, (सं + प्र + दा + ल्युट् ।) सम्य- क्प्रकारेण दानम् । षट्कारकान्तर्गतकारक- विशेषः । स च दित्सासूयाक्रोधेर्षारुचिद्रोह- स्थाह्नुश्लाघस्पृहिशप्राधीक्षाप्रतिश्रुप्रत्यनुगृधार्य्य- र्थानां विषयः । तत्र चतुर्थी विभक्तिः स्यात् । मुख्यसंप्रदानन्तु प्रकृष्टं दानं यो लभते सः । तथा चोक्तम् । “सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥” इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥ अपि च । “गत्यादिभिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया । यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम् ॥” गत्यादिभिन्ने यद्धातूपस्थाप्य यादृशार्थे विग्रहस्थ- चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा- तूपस्थाप्य तादृशक्रियायां संप्रदानत्वमुच्यते । ब्राह्मणाय दानं धनस्य इत्यादौ ददातेः स्वत्व- जनकस्त्यागोऽर्थः तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र संप्रदानत्वं ब्राह्मणादिप्रतियोगिकं यद्धनवृत्तिस्वत्वं तज्जनकस्त्याग इत्येवं तत्र प्रत्य- यात् धात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तया धनादेर्दानकर्म्मत्वात् । न चैवं पशुकामनया यागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपि प्रयोगापत्तिः तादृशयागस्य चैत्रीयं यत् पशु- निष्टं स्वत्वं तज्जनकत्यागत्वादिति वाच्यं स्वत्व- ध्वंसजनकक्रियापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्व- ध्वंसेऽपि द्वितीयाद्यर्थस्यान्वयेन पशुफलकयागे पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्वविरहादेत- द्बाक्यस्याप्रमाणत्वात् । ग्रामाय गत इत्यादौ विग्रहस्थचतुर्थ्या धात्वर्थे बोध्यमपि कर्म्मत्वं न गत्यादिभिन्ने । वृक्षाय सेचक इत्यादौ गत्यादि- भिन्ने चतुर्थ्या बोधनीयोऽपि संवर्द्धयितुमित्यादि तुमर्थो न विग्रहस्थयेति न तत्र प्रसङ्गः । संप्रदानशब्दस्तु स्वाश्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्त इति स्वत्वप्रतियोगित्वं संप्र- दानमित्यादिको न प्रयोगः । न च दानस्य स्वत्वहेतुत्वे प्रमाणाभावः । ‘सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥’ इत्यादि मन्वादिवचनैस्तस्य स्वत्वहेतुत्वाप्रति- पादनादिति वाच्यम् । ब्राह्मणाय त्यक्तायां गवि गौरियं ब्राह्मणस्य न तु ममेत्यादि सार्व्वजनीन- प्रतीतेरेव तत्र प्रमाणत्वात् प्रदानं स्वाम्य- प्रतिशृणोति आशृणोति इत्यादौ देयत्वे नाभ्यु- पगमः शृणोतेरर्थस्तत्र गोर्विशिष्यत्वेन तदेक- देशे च दाने गुरोरुद्दिश्यत्वेनान्वयस्तेन गुरू- द्दश्यकदानकर्म्मत्वेन गामभ्युपगच्छतीत्येवं तत्र बोधः । होत्रे प्रतिगृणातीत्यादौ हर्षानुकूल- व्यापारलक्षणं प्रोत्साहनं गृणातेरर्थस्तदेक- देशे च हर्षे होत्रादेरन्वयः तेन होतृनिष्ठ- हर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । चैत्राय कुप्यतीत्यादौ धात्वर्थ उत्कटद्बेषस्तत्र विषयित्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते तेन चैत्रविषयकोत्कटद्बेषवान् इत्याकारकस्तत्र बोधः । पुत्त्रे कोपो न युज्यते इत्यत्र कृदन्तस्य कोपपदस्यैवार्थे पुत्त्र इत्यस्यान्वयो न तु धात्वर्थे । पटाय यतते इत्यादावपि धात्वर्थकृतौ सुपा पटस्य विषयित्वं बोध्यते तत्र उद्देश्यत्वमेव चतु- र्थ्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्म्माण- दशायां पटाय यतते इत्यादिकः प्रयोग इत्यपि वदन्ति । मित्राय द्रुह्यति इत्यत्र द्बिष्टाचरणं द्रोहस्तेन मित्रस्य द्विष्टमाचरतीत्यर्थः । शिष्याय ईर्ष्यति इत्यत्र अनिष्टानुपेक्षणमीर्षा तथा च शिष्यानिष्टं नोपेक्षत इत्यर्थः । पुत्त्रायासूयति इत्यत्रासूया गुणद्वेषस्तेन पुत्त्रस्य गुणं द्बेष्टि इत्याकारकस्तत्र बोधः । मित्रं द्रुह्यति शिष्य- मीर्ष्यति पुत्त्रमसूयतीत्यपि प्रयोगात् द्रुहादि- कर्म्मणः संप्रदानत्वं वैकल्पिकमित्युन्नीयते । कोपपूर्व्वकस्य द्रोहादेर्द्रुहादिधातुवाच्यत्वे तत्- कर्म्मणः संप्रदानत्वं द्रोहादिमात्रस्य तथात्वे तु कर्म्मत्वमेवेति पुनः कौमाराः । सोपसर्गयोस्तु क्रुधद्रुहोः कर्म्मणः कर्म्मतैव न तु संप्रदानता अतएव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढे- त्यादौ कृद्योगे कर्म्मणि षष्ठ्येव प्रमाणम् ।” इति शब्दशक्तिप्रकाशिका ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदान¦ न॰ सम् + प्र + दा--भावे ल्युट्।
१ सम्यक्प्रदाने। सम्प्रदीयतेऽस्मै ल्युट्।
“कर्मणा यमभिप्रैति स सम्प्रदा-नमिति” पाणिन्युक्ते
२ दानकर्मोद्देश्ये। तच्च त्रिविधम्।
“अनिराकरणात्कर्तुस्त्यागाङ्गकर्मणेप्सितम्। प्रेरणानु-मतिभ्याञ्च लभते सम्प्रदानताम्” इत्युक्तेः। तत्र विष्णवेवस्त्रं ददातीत्यादौ अनिराकर्तृ सम्प्रदानम्, याचकायधनं ददातीत्यादौ प्रेरयितृ सम्प्रदानम्, गुरवे धनंददातीत्यादौ अनुमन्तृ सम्प्रदानम्। गौणमुख्यसाधा-रणे सम्प्रदाने चतुर्थी पा॰। तल्लक्षणं तु शब्दश॰प्र॰ दर्शितं यथा
“गत्यादिमिन्ने धात्वर्थे चतुर्थ्याविग्रहस्थया।{??}
“स्वार्थो बोधनीयस्तत्सम्प्रदानत्वती-रितम्”।
“गत्यादिमिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्र-हस्थचतुर्थ्या यः स्वार्थो बाधयितुं शक्यते स तद्धातूपस्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते। ब्राह्मणाय दानंवनस्येत्यादौ ददातेः स्वत्वजनकत्यागाऽर्थस्तन्निविष्टे चस्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्याबोध्यते इति तदेव तत्र सम्प्रदानत्वं ब्रह्मणप्रतियोगिकंब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वत्वं तज्जनकस्त्यागइत्येवं तत्र प्रत्ययात् घात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तया घनादेर्दानकर्मत्वात्। न चैवं पशुकामनयायागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपिप्रवीगापत्तिस्तादृशयागस्य चेत्रीयं यत् पशुनिष्ठं स्वत्वंतज्जनकत्यागत्वादिति वाच्यं स्वत्वध्वं सजनकक्रियापर्य्य-वसन्नस्य त्यागस्यैकदेशे स्वत्वध्वंसेऽपि द्वितीयाद्यर्थस्यान्व-येन पशुफलकयागे पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्व-विरहादेव तद्वाक्यस्वाप्रमाणत्वात्। ग्रामाय गत इत्यादौविग्रहस्थचतुर्थ्या धात्वर्थे बाध्यमपि कर्मत्वं न गत्यादि-मिन्ने चतुर्थ्या बोधनीयम्। संवर्द्धयितुमित्यादि तुमर्थोन विग्रहस्थयेति न तत्र प्रसज्ञः। गम्प्रदानशब्दस्तु स्वा-श्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्त इतिस्त्रतप्रतियोगित्य सम्प्रदानत्वमित्यादिको न प्रयोगः। न च दानस्य सत्वहेतुत्वे प्रमाणामावः।
“सप्त वित्तागमा[Page5240-b+ 38] धर्म्या दायो लाभः क्रयो जयः। विभागः सम्प्रयोमश्चसत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्वहेतुत्व-ऽप्रतिपादनादिति वाच्यं व्राह्मणाय त्यक्तायां गाव गौरियंब्राह्मणस्य न तु ममेत्यादिसर्वजनीनप्रतीतेरेव तत्र प्रमाण-त्वात्
“प्रदानं स्वाम्यकारणमिति” वचनाच्च। अतएवविदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्यमरणस्थले पितृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य गृह्यतेअन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्यकुशादेरिवो-पादाने यथेष्टनियोगे च प्रत्यवायो न स्यात्। नन्वेवंदानादेव स्वत्वसिद्धेर्दक्षवस्तुनि स्वीकारो व्यर्थ इति चेन्न
“लव्ध्वा चाष्टगुणं फलम्” इत्यादिस्मृतेः प्रतिगृहीतद्र-व्यदानस्य फलविशेषं प्रतिहेतुत्वेन तादृशफलसम्पत्त्यर्थमेवप्रतिग्रहस्योपयोगात्
“याजनाध्यापनप्रतिग्रहैर्द्विजो धन-मर्जयेदित्यादि” श्रुत्या प्रागुक्तस्मृत्या च प्रविग्रहस्यापिस्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवार्जन पदार्थ-त्वात्। दासाय भक्ष्यं ददाति भृतकाय वेतनं ददाती-त्यादावपि स्वत्वजनकत्यागं प्रतिपाटयन् ददातिर्मुख्यएव पुण्यजनकन्तु न तादृशं दानमवैधत्वात्। युत्तुस्वीकारजन्यस्य स्वत्वस्य जनकस्त्यागो दानं मनसा पात्र-मुद्दिश्य धनत्यागस्तु न दानं किन्तूत्सर्गमात्रं प्रतिग्रह-जन्यस्वत्वं प्रति हेतुभूतवैधत्यागस्यैव तथात्वात्, उपेक्षातु खत्वध्वंसमात्रजनकस्त्यागो न तु तत्र स्वत्वजनकत्व-स्यान्तर्भाव इति मैथिलैरुक्तं तन्न युक्तं लाघवेन स्वत्व-जनकत्यागस्यैव ददात्यर्थत्वात्। तिलानस्मै प्रतियच्छतितुरगमस्मै विक्रीणीते इत्यादौ द्रव्यान्तरग्रहणपूर्वकंदानमेव प्रतिदान मूल्यग्रहणपूर्वकं दानमेव च विक्रयइति तत्रापि मुख्यमेव सम्प्रदानत्वं चतुर्थ्या बोध्यतेतिलादिकञ्च न मूल्यं पणपुराणादेरेव शास्त्रे तथात्वोप-देशात्। अदृष्टार्थं दत्तस्यैव च स्वीकारः प्रतिग्रहइति परेण प्रीतिदत्तस्य विक्रीतस्य वा तिलतुरगादेः स्वी-कारो न दोषाबहः। मैत्राय रोचते मोदक इत्यत्रचतुर्थ्या धात्वर्थान्वितमाघेयत्वं धातुना च भक्ष्यत्वप्रका-रकेच्छोपस्थाप्यते तिङा तु प्रकाशत इत्यादादिव विष-यत्वलक्षणं कर्तृत्वं तथाच मैत्रनिष्ठाया भक्ष्यत्वप्रकारके-च्छाया विषयतावान्मोदक इत्याकारकस्तत्र बोधः। गुरवे गां धारयते इत्यत्र धृङा गृहावस्थितिर्द्वितीययातदन्वितं कर्तृत्वं चतुर्थ्या च तन्निविष्टगृहान्वितं सम्ब-न्धित्वसुपस्थाप्यते तेन गोकर्तृकाया गुरुसम्बन्धि{??}हाव-[Page5241-a+ 38] स्थितेरनुकूलव्यापारवानित्याकारस्तत्र बोधः धृधातूत्तर-णिचा व्यापारबोधनादिति कालापाः। पाणिनीयास्तु
“घारेरुत्तमर्णः” इति सूत्रानुसारेण चैत्राय शतं धारयतेइत्यादाविव गुरवे गां धारयते इत्यादावपि ऋणग्रहणंघारणं दत्तत्वञ्च चतुर्थ्यर्थः तथाच गुरुदत्तां गा ऋणत्वेनगृह्णातीत्याकारस्तत्र वाक्यार्थः पश्चाच्छोध्यत्वेनाङ्गीकृत्यगृहीतञ्च द्रव्यमृणमित्याहुः। पुत्राय राध्यति पुत्राये-क्षते इत्यादौ दैवनिरूपणं धात्वर्थस्तन्निविष्टे च दैवे सुवर्थम्य सम्बन्धस्यान्वयस्तेन पुत्रस्य दैवं निरूपयतीव्येवतत्र वोवः। गुरवे गां प्रतिशृणोति आशृणोतीत्यादौदेयत्वेनाभ्युपभमः शृणीतेरर्थस्तत्र गोर्विशेष्यत्वेन तदेकदेशे च दाने गुरोरुद्देश्यत्वेनान्वयस्तेन गुरूद्देश्यकदान-कर्मत्वेन गामभ्युपगच्छतीत्येवं तत्रं बोधः। होत्रेप्रतिगृणातीत्यादौ हर्षानुकूलव्यापारलक्षणं प्रोत्साहनंगृणातेरर्थस्तदेकदेशे च हर्षे होत्रादेरन्वयस्तेन होतृ-निष्ठहर्षानुकूलव्यापारवानित्याकारकस्तत्र बोधः। चैत्रायकृप्यति क्रुध्यतीत्यादौ धात्वर्थ उत्कटद्वेषस्तत्र विषयित्व-लक्षणं सम्प्रदानत्वं चतुर्थ्या बोध्यते तेन च चैत्रविषय-कोत्कटद्वेषवानित्याकारकस्तत्र बोधः। पुत्रे कोपो नयुज्यते इत्यादौ कृदन्तस्य कोपपदस्यैवार्थे पुत्र इत्यस्या-स्वया न तु धात्वर्थ। पटाय घटते इत्यादावपि घात्वर्थ-कृतौ सुपा पटस्य विषयित्व बोध्यते तत्रोद्देश्यत्वमेव{??}तुर्य्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्माणदशायां पटाययतते इत्यादिकः प्रयोगः इत्यपि वदन्ति। मित्रायद्रुह्यतीत्यत्र द्विष्टाचरणं द्रोहस्तेन मित्रस्य द्विष्टमाचर-तीत्यर्थः। शिष्यायेर्ष्यतीत्यत्रानिष्टानुपेक्षणमीर्ष्या तथाचशिष्यानिष्टं नोपेक्षत इत्यर्थः। पुत्रायासूयतीत्यत्र अ-सूया गुणद्वेषस्तेन पुत्रस्य गुणं द्वेष्टीत्याकारस्तत्र बोधः। मित्रं द्रुह्यति शिष्यमीर्ष्यति पुत्रमसूयतीत्यपि प्रयोगात्द्रुहादिकर्मणः सम्प्रदानत्वं वैकल्पिकमित्युन्नीयते। कोप-पूर्वकस्य द्राहादेर्द्रुहादिधातुवाच्यत्वे तत्कर्मणः सम्प्र-दानत्वं द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेवेति पुनःकोमाराः। सोपसर्गयोस्त क्रुधद्रुहोः कर्मणः कर्म-तैव न तु सम्प्रदानता अतएव शिष्यस्याभिक्रोद्धा मित्र-स्याभिद्रोढेत्यादौ कृद्योगे कर्मणि षष्ठ्येव प्रमाणम्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदान¦ n. (-नं)
1. Gift, donation.
2. The act of giving or handing over completely.
3. Bestowing in marriage.
4. The idea expressed by the fourth case, the dative case, (in grammar.) E. सम् and प्र before दा to give, ल्युट् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदान/ सम्-प्रदान n. the act of giving or handing over completely , presenting , bestowing (also in marriage) Mn. MBh. Ka1v. etc.
सम्प्रदान/ सम्-प्रदान n. handing down by tradition , imparting , teaching VPra1t. Gaut.
सम्प्रदान/ सम्-प्रदान n. granting , allowing R.
सम्प्रदान/ सम्-प्रदान n. a gift , present , donation KaushUp. MBh. etc.
सम्प्रदान/ सम्-प्रदान n. (in gram.) one of the six कारकs , the idea expressed by the dative case , the recipient to which the agent causes anything so be given(See. 1. कारक) Pa1n2. 1-4 , 32 ; 44 etc.
