सामग्री पर जाएँ

सम्प्रदानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्प्रदानम्, क्ली, (सं + प्र + दा + ल्युट् ।) सम्य- क्प्रकारेण दानम् । षट्कारकान्तर्गतकारक- विशेषः । स च दित्सासूयाक्रोधेर्षारुचिद्रोह- स्थाह्नुश्लाघस्पृहिशप्राधीक्षाप्रतिश्रुप्रत्यनुगृधार्य्य- र्थानां विषयः । तत्र चतुर्थी विभक्तिः स्यात् । मुख्यसंप्रदानन्तु प्रकृष्टं दानं यो लभते सः । तथा चोक्तम् । “सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥” इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥ अपि च । “गत्यादिभिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया । यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम् ॥” गत्यादिभिन्ने यद्धातूपस्थाप्य यादृशार्थे विग्रहस्थ- चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा- तूपस्थाप्य तादृशक्रियायां संप्रदानत्वमुच्यते । ब्राह्मणाय दानं धनस्य इत्यादौ ददातेः स्वत्व- जनकस्त्यागोऽर्थः तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र संप्रदानत्वं ब्राह्मणादिप्रतियोगिकं यद्धनवृत्तिस्वत्वं तज्जनकस्त्याग इत्येवं तत्र प्रत्य- यात् धात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तया धनादेर्दानकर्म्मत्वात् । न चैवं पशुकामनया यागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपि प्रयोगापत्तिः तादृशयागस्य चैत्रीयं यत् पशु- निष्टं स्वत्वं तज्जनकत्यागत्वादिति वाच्यं स्वत्व- ध्वंसजनकक्रियापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्व- ध्वंसेऽपि द्वितीयाद्यर्थस्यान्वयेन पशुफलकयागे पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्वविरहादेत- द्बाक्यस्याप्रमाणत्वात् । ग्रामाय गत इत्यादौ विग्रहस्थचतुर्थ्या धात्वर्थे बोध्यमपि कर्म्मत्वं न गत्यादिभिन्ने । वृक्षाय सेचक इत्यादौ गत्यादि- भिन्ने चतुर्थ्या बोधनीयोऽपि संवर्द्धयितुमित्यादि तुमर्थो न विग्रहस्थयेति न तत्र प्रसङ्गः । संप्रदानशब्दस्तु स्वाश्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्त इति स्वत्वप्रतियोगित्वं संप्र- दानमित्यादिको न प्रयोगः । न च दानस्य स्वत्वहेतुत्वे प्रमाणाभावः । ‘सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥’ इत्यादि मन्वादिवचनैस्तस्य स्वत्वहेतुत्वाप्रति- पादनादिति वाच्यम् । ब्राह्मणाय त्यक्तायां गवि गौरियं ब्राह्मणस्य न तु ममेत्यादि सार्व्वजनीन- प्रतीतेरेव तत्र प्रमाणत्वात् प्रदानं स्वाम्य- प्रतिशृणोति आशृणोति इत्यादौ देयत्वे नाभ्यु- पगमः शृणोतेरर्थस्तत्र गोर्विशिष्यत्वेन तदेक- देशे च दाने गुरोरुद्दिश्यत्वेनान्वयस्तेन गुरू- द्दश्यकदानकर्म्मत्वेन गामभ्युपगच्छतीत्येवं तत्र बोधः । होत्रे प्रतिगृणातीत्यादौ हर्षानुकूल- व्यापारलक्षणं प्रोत्साहनं गृणातेरर्थस्तदेक- देशे च हर्षे होत्रादेरन्वयः तेन होतृनिष्ठ- हर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । चैत्राय कुप्यतीत्यादौ धात्वर्थ उत्कटद्बेषस्तत्र विषयित्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते तेन चैत्रविषयकोत्कटद्बेषवान् इत्याकारकस्तत्र बोधः । पुत्त्रे कोपो न युज्यते इत्यत्र कृदन्तस्य कोपपदस्यैवार्थे पुत्त्र इत्यस्यान्वयो न तु धात्वर्थे । पटाय यतते इत्यादावपि धात्वर्थकृतौ सुपा पटस्य विषयित्वं बोध्यते तत्र उद्देश्यत्वमेव चतु- र्थ्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्म्माण- दशायां पटाय यतते इत्यादिकः प्रयोग इत्यपि वदन्ति । मित्राय द्रुह्यति इत्यत्र द्बिष्टाचरणं द्रोहस्तेन मित्रस्य द्विष्टमाचरतीत्यर्थः । शिष्याय ईर्ष्यति इत्यत्र अनिष्टानुपेक्षणमीर्षा तथा च शिष्यानिष्टं नोपेक्षत इत्यर्थः । पुत्त्रायासूयति इत्यत्रासूया गुणद्वेषस्तेन पुत्त्रस्य गुणं द्बेष्टि इत्याकारकस्तत्र बोधः । मित्रं द्रुह्यति शिष्य- मीर्ष्यति पुत्त्रमसूयतीत्यपि प्रयोगात् द्रुहादि- कर्म्मणः संप्रदानत्वं वैकल्पिकमित्युन्नीयते । कोपपूर्व्वकस्य द्रोहादेर्द्रुहादिधातुवाच्यत्वे तत्- कर्म्मणः संप्रदानत्वं द्रोहादिमात्रस्य तथात्वे तु कर्म्मत्वमेवेति पुनः कौमाराः । सोपसर्गयोस्तु क्रुधद्रुहोः कर्म्मणः कर्म्मतैव न तु संप्रदानता अतएव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढे- त्यादौ कृद्योगे कर्म्मणि षष्ठ्येव प्रमाणम् ।” इति शब्दशक्तिप्रकाशिका ॥

"https://sa.wiktionary.org/w/index.php?title=सम्प्रदानम्&oldid=174977" इत्यस्माद् प्रतिप्राप्तम्