सामग्री पर जाएँ

सम्प्राप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्प्राप्तिः, स्त्री, (सं + प्र + आप् + क्तिन् ।) सम्यक्प्रापणम् । यथा, -- “आत्मनेपदसंप्राप्तौ परस्मै कुत्रचिद्भवेत् ॥” इति संक्षिप्तसारव्याकरणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्प्राप्ति¦ स्त्री सम् + प्र + आप--क्तिन्।

१ सम्यक्प्राप्तौ

२ वैद्य-कोक्ते रोगोत्पत्तिभेदे च तल्लक्षणं भावप्र॰ उक्तं यथा
“अथ सप्राप्तेलंक्षणमाह
“यथा दुष्टेन दोषेण यथाचानुविसर्पता। उत्पत्तिर्याऽमयस्यासौ सम्प्राप्तिर्जातिरा-गतिः”। यथा दुष्टेन दोषेण यथा कारणभेदेन दोषेणयथा चानुविसर्षता अनेकधा दोषाणां विसर्पता मूर्ध्वा-धस्तिर्यगादिगतिभेदेन तथा च विसर्वता। आमयस्यया उत्पत्तिः असौ सम्प्राप्तिः। शास्त्रव्यवहारायसम्प्राप्तेः पर्य्यायावाह जातिरागतिरिति। संप्राप्तेरौपाधिकभेदानाह
“सङ्ख्याविकल्पप्राधान्यबलकालवि-शेषतः। सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति”। सङ्ख्यादिकालविशेषान्तेभ्यः सा संप्राप्तिर्मिद्यते भेदवतीक्रियतं इत्यर्थः। तत्र सङ्ख्यां विवृणोति। यथा ज्वरो-ऽष्टधा अतीसारः षड्विध इत्यादि विकल्पं विवृणोति।
“दोषाणां सभवेतानां विकल्पोऽशांश कल्पना” समवेतानांसमुदितानां दोषाणाम् अंशांशकल्पनाहीन मध्याधिकभेदै-र्भागकल्पना विकल्पः। प्राधान्यं विवृणोति।
“खा-तन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राभान्यमादिशेत्”। ज्याप्तेः[Page5243-a+ 38] स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधान्यञ्च वदेदि-त्यर्थः। यथा स्वतन्त्रस्य ज्वरस्य प्राधान्यं ज्वराधीनानांश्वासादीनामप्राधान्यम। बलं विवृणोति
“हेत्वादि-कार्त्स्न्यावयवैर्बलाबलविशेषणम्”। अत्रापि व्याधेरि-त्यनुवर्त्तते हेत्वादीनां हेतुपूर्वरूपरूपाणाम्। कार्त्स्न्येनसाकल्येन अवयवैः एकदेशेन व्याधेर्बलाबलयोर्विशेषणम्। विशेषणं बोधः। कालं विवृणोति।
“नक्तं दिनर्तुभुक्तां-शैर्व्याधिकालो यथामलम्” नक्तमत्राव्ययं रात्रिवाचकम्। घतेनैतदुक्तं यस्मिन्नक्तादिरंशो यस्य दोषस्य प्रकोप उक्तो-ऽस्ति सोऽशस्तस्य दोषजस्य व्याधेः काल इत्यर्थः। नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन
“ते व्यापिनो-ऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः। वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमादिति” ते वातपित्तकफाः। ऋतुषु वातादिको यथा।
“वर्षासु शिशिरे वायुः, पित्तंशरदि ग्रीष्मके। वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी। संप्राप्तिर्व्याधीनां ज्ञानाय हेतुः, यथा मिथ्याहारविहार-कपितवाताद्यामाशयगमनरसदूषणकोष्ठाग्निबहिर्निरसन-रूपं ज्वरोत्पत्तिप्रकारं बोधयति। तथा व्याधीनां स-ङ्ख्यादोषांशकल्पना प्राधान्यबलकालांश्च बोधयति।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सम्प्राप्ति¦ f. (-प्तिः) Obtaining, getting, acquisition. E. सम् before प्राप्ति ob- taining; or सम + प्र + आप-क्तिन् |

"https://sa.wiktionary.org/w/index.php?title=सम्प्राप्ति&oldid=402424" इत्यस्माद् प्रतिप्राप्तम्