सम्बद्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्बद्धः, त्रि, (सं + बन्ध + क्तः ।) सम्बन्धयुक्तः । यथा सुमन्तुः । मातृपितृसम्बद्धा आसप्तमाद- विवाह्याः कन्या भवन्ति । इत्युद्वाहतत्त्वम् ॥ (यथा च भागवते । २ । ९ । १ । “आत्ममायामृते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥”) बन्धनविशिष्टः । (यथा, रामायणे । ५ । ५६ । २७ । “दन्तौष्ठपुटसंबद्धं वक्त्रं सापि तदाकरोत् ॥”)
