सम्बोधन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्बोधनम्, क्ली, (सं + बुध + ल्युट् ।) अन्यत्र व्यासक्तस्य कार्य्यान्तरे नियोजनार्थमाभिमुख्य- विधानम् । यथा हे विष्णो । इति व्याकरणम् ॥ हे वृक्ष हे लते हे फल इत्यादावचेतने तूप- चारः । इति दुर्गादासः ॥ तत्पर्य्यायः । आम- न्त्रणम् २ । इति हेमचन्द्रः ॥ सम्बुद्धिः ३ । इति मुग्धबोधः ॥ (यथा, साहित्यदर्पणे । ६ । ५१३ । “सम्बोधनोक्तिप्रत्युक्ती कुर्य्यादाकाशभाषितैः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्बोधन¦ न॰ सम् + बुध--ल्युट्।
१ सम्यक्ज्ञाने। बुध--णिच्-युच्। तत्रार्थे स्त्री भरतः। ल्युट्।
२ सम्यग्ज्ञापने
“स्थितस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ता-भिमुख्यः पुरूषः क्रियासु विनियुज्यते” इति व्याकरणोक्तेअन्यत्रासक्तस्यामिमुखीकरणाय अमीष्टक्रियासु विनियो-गाय ज्ञापनादिरूपे
३ व्यापारभेदे न॰
“सम्बोधनपदं यच्च तत् क्रियाया विशेषणम्। व्रजानिदेवदत्तेत्यादौ निघातोऽत्र तथा सति” हरिः। समान-वाक्ये एव निघातस्य (अनुदात्तस्य) विधानात्। व्रजानिदेवदत्त इत्यादौ तस्य निघातः।
“सम्बोधनान्तं कृत्वोर्थाःकारकं प्रथमो वातः। धातुसम्बन्धाधिकारविहितभस-[Page5244-a+ 38] मस्तनञ्। तथा तत्स च भावेन षष्ठी चेत्युदितं द्वयम्। सम्बन्धश्चाष्टकस्यास्य क्रिययैवाधार्य्यताम्” हर्य्युक्तेस्तस्यक्रियायामेवान्वयः। सम्बोधनार्थे च प्रथमा।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्बोधन¦ n. (-नं)
1. Calling, addressing, calling to.
2. The vocative case, (in grammar.) E. सम्, and बुध् to know, causal form, aff. ल्युट् |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्बोधन/ सम्- mfn. (partly fr. Caus. ) awaking , arousing MBh.
सम्बोधन/ सम्- mfn. perceiving , noticing , observing MBh.
सम्बोधन/ सम्- mfn. recognizing MaitrUp.
सम्बोधन/ सम्- mfn. the act of causing to know , reminding MBh. Hariv.
सम्बोधन/ सम्- mfn. calling to Pa1n2. 2-3 , 47
सम्बोधन/ सम्- mfn. the vocative case or its termination Siddh. Subh.