सम्भवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्भवः, पुं, (सं + भू + अप् ।) हेतुः । उत्पत्तिः । (यथा, आर्य्यासप्तशत्याम् । ४५८ । “महता प्रियेण निर्म्मितमप्रियमपि सुभग ! सह्यतां याति । सुतसम्भवेन यौवनविनाशनं न खलु खेदाय ॥”) मेलकः । आधेयस्य आधारानतिरिक्तत्वम् । इति मेदिनी ॥ सङ्केतः । अपायः । इत्यजयः ॥ वर्त्तमानकल्पीयार्हद्भेदः । इति हेमचन्द्रः ॥
