सम्भावनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्भावनम्, क्ली, (सम्भावयत्यनेनेति । सं + भू + णिच् + ल्युट् ।) अलङ्कारविशेषः । यथा, -- “सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्बक्ता कथिताः स्युर्गुणास्तव ॥” इति चन्द्रालोकः ॥ सम्भावनं क्रियासु योग्यताध्यवसायः । इति मुग्धबोधव्याकरणम् ॥ (सम्भावके, त्रि । यथा, भागवते । ४ । १७ । २६ । “पुमान् योषिदुत क्लीव आत्मसम्भावनोऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्बधोऽवधः ॥”)
