सम्भोगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्भोगः, पुं, (सं + भुज् + घञ् ।) भोगः । (यथा, मनुः । ८ । २०० । “सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥”) सुरतम् । (यथा, महाभारते । ४ । १३ । २८ । “रत्युन्मादसमारम्भाः साक्षात्कारकरा मम । आत्मप्रदानसम्भोगात् मामुद्धर्त्तुं त्वमर्हसि ॥”) जिनशासनम् । इति मेदिनी ॥ हर्षः । इति शब्द- रत्नावली ॥ केलिनागरः । इति जटाधरः ॥ शृङ्गारभेदः । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, साहित्यदर्पणे ३ परिच्छेदे । “दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योऽन्यं सम्भोगः समुदाहृतः ॥”
