सम्भ्रमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्भ्रमः, पुं, (सं + भ्रम + घञ् ।) भयादिजनित- त्वरा । (यथा, रघुः । ११ । २५ । “वीक्ष्य वेदिमथ रक्तबिन्दुभि- बन्धुजीवपृथभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्म्मणां ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥”) तत्पर्य्यायः । संवेगः २ । इत्यमरः । १ । ७ । ३४ ॥ आवेगः ३ । इति तट्टीका ॥ प्रवेगः ४ त्वरा ५ त्वरिः ६ । इति वाचस्पतिः ॥ भयम् । (यथा, रामायणे । ४ । २ । १४ । “सम्भ्रमस्तज्यतामेष सर्व्वर्वालिकृते महान् ॥”) आदरः । इति मेदिनी ॥ महाभ्रमः । सूत्रम् । इत्यजयपालः ॥
