सम्मदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्मदः, पुं, (सम् + मद् + “प्रमदसंमदौ हर्षे ।” ३ । ३ । ६८ । इति अप् ।) हर्षः । (यथा, साहित्यदर्पणे । ३ । १६७ । “मदसम्मदपीडाद्यैर्वैस्वर्य्यं गद्गदं विदुः ॥”) मत्स्यविशेषः । यथा, विष्णुपुराणे । ४ । २ । १९ । “बह्वृचश्च सौभरिर्नाम महर्षिरन्तर्ज्जले द्वाद- शाब्दं कालमुवास । तत्र चान्तर्ज्जले मत्स्यः सम्मदो नामातिबहुप्रजोऽतिप्रमाणो मीनाधि- पतिरासीत् ॥” तद्वति, त्रि । इत्यमरः । १ । ४ । २४ ॥
