सम्मुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्मुखः, त्रि, (सम्यक् मुखं यस्य ।) अभिमुखा- गतः । तत्पर्य्यायः । भग्नपृष्ठः २ । इति त्रिकाण्ड- शेषः ॥ (यथा, कथासरित्सागरे । २७ । १३८ । “तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया । राजा वैरिमृगा यस्य नैवासन् सम्मुखाः क्वचित् ॥” अभिमुखे, क्ली । सुमुख इति भाषा ॥ यथा, कथासरित्सागरे । ४ । ७० । “नाशकत् सम्मुखे स्थातुं कष्टो ह्यविनयक्रमः ॥” तथा च साहित्यदर्पणे । ३ । १५४ । “दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति ॥” सर्व्वं मुखमिति निपातनात् अन्तलोपे सम्मुख- मिति सिद्धम् । इति शब्दार्थचिन्तामणिः ॥ समस्तमुखे च क्ली । इति काशिका । ५ । २ । ६ ॥)
