सरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सरः, पुं, (सृ गतौ + पचाद्यच् ।) दध्यग्रम् । तत्पर्य्यायः । “सरश्च दध्युत्तरगं दधिस्नेहस्तु कट्वरम् ।” इति रत्नमाला ॥ गतिः । इति मेदिनी ॥ बाणः । लवणः । इति हेमचन्द्रः ॥ निर्झरे, पुं स्त्री । इति भरत- द्विरूपकोषः ॥
सरः, त्रि, (सृ + अच् ।) सारकः । भेदकः । यथा, राजवल्लभः । “पिप्पली मधुरा वृष्या कटुका दीपनी सरा ॥” गमनकर्त्तरि, त्रि ॥
सरः, [स्] क्ली, (सरतीति । सृ + “सर्व्वधातुभ्यो- ऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) सरोवरः । इत्यमरः । १ । १० । २६ ॥ (यथा, महाभारते । १ । १५६ । २४ । “तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्योत्पलयुतेषु च ॥”) अस्य विवरणं तडागपद्माकरशब्दयोर्द्रष्टव्यम् ॥ अस्य जलगुणाः । यथा, राजवल्लभः । “सारसं लघु तृष्णाघ्नं बल्यं स्वादु कषायवत् ॥” नीरम् । यथा । सरो नीरे तडागे च । इति रुद्रः । इत्यमरटीकायां भरतः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सरः in comp. for सरस्.
