सरलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सरलः, पुं, (सरतीति । सृ + “वृषादिभ्यश्चित् ।” उणा० १ । १०८ । इति कलच् । बाहुलकात् गुणः । इत्युज्ज्वलदत्तः ।) वृक्षविशेषः । (यथा, कुमारे । १ । ९ । “कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥”) तत्पर्य्यायः । पीतद्रुः २ पूतिकाष्ठम् ३ । इत्य- मरः । २ । ४ । ६० ॥ धूपवृक्षकः ४ । इति शब्द- रत्नावली ॥ पीतदारुः ५ भद्रदारुः ३ मनोज्ञः ७ । इति रत्नमाला ॥ पीतः ८ स्निग्धदारुसंज्ञः ९ स्निग्धः १० मरिचपत्रकः ११ पीतवृक्षः १२ सुरभिदारुः १३ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातत्वग्दोषशोफ- कण्डूतिव्रणनाशित्वम् । कोष्ठशुद्धिदातृत्वम् । इति राजनिर्घण्टः ॥ अन्यच्च भावप्रकाशे । “सरलः पीतवृक्षः स्यात् तथा सुरभिदारुकः । सरलो मधुकस्तिक्तः कटुपाकरसो लघुः ॥ स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः । कफानिलस्वदयूककामलाक्षिव्रणापहः ॥” बुद्धः । अग्निः । इति धरणिः ॥
सरलः, त्रि, (सृ + कलच् । बाहुलकात् गुणः ।) उदारः । अवक्रः । इति मेदिनी ॥ (यथा, कथासरित्सागरे । ४ । “आदिश्यानाययामास गणकान् सरलाशयः ॥”)
