सामग्री पर जाएँ

सरोवरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सरोवरः, पुं, (सरःसु वरः श्रेष्ठः पद्माकरत्वात् ।) जलाशयविशेषः । (यथा, भागवते । ८ । २४ । २१ । “तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्द्धत ॥”) तत्पर्य्यायः । पद्माकरः २ कासारः ३ तडागः ४ तडाकः ५ तटाकः ६ सरसः ७ सरसी ८ सरः ९ सरम् १० सरकम् ११ । इति शब्द- रत्नावली ॥ तल्लक्षणादि पुष्करिणीशब्दे द्रष्टव्यम् । तस्य जलगुणाः सरःशब्दे द्रष्टव्याः ॥

"https://sa.wiktionary.org/w/index.php?title=सरोवरः&oldid=175226" इत्यस्माद् प्रतिप्राप्तम्