सामग्री पर जाएँ

सर्गबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्गबन्धः, पुं, (सर्गैरध्यायैर्ब्बन्धो यस्य ।) महा- काव्यम् । इति भूरिप्रयोगः ॥ तल्लक्षणं यथा, -- “सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमष्क्रिया वस्तुनिर्द्देशो वापि तन्मुखम् ॥ इतिहासकथोद्भूतमितरद्वा तदाश्रयम् । चतुर्व्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ नगरार्णवशैलर्त्तुचन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥ विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ सर्व्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ॥” इति दण्डी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्गबन्ध¦ पु॰ बन्ध--भावे घञ् सर्गैर्बन्धः

३ त॰
“कृदभिहितभावोद्रव्यवत् प्रकाशते” इति न्यायात् सर्गबन्धस्य कर्मपरतान कर्मणि घञ् तथःत्वे महाकाव्यविशेषणतया क्लीवता-पत्तेः। महाकाव्ये तल्लक्षणं महाकाव्यशब्देऽनुक्तत्वात् अत्रदर्श्यते सा॰ द॰
“सर्गबन्धो महाकाव्यं तत्रैको नायकःसुरः। सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः। एकवंशभवा भूपाः कुलजा बहवोऽपि वा। शृङ्गारवी-रशान्तानामेकाऽङ्गी रस इष्यते। अङ्गानि सर्वेऽपिरसाः सर्वे नाटकसन्धयः। इतिहासोद्भवं वृत्तमन्यद्वासज्जनाश्रयम्। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलंभवेत्। आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा। क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम्। एक-वृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। नातिस्वल्पा नाति-दीर्घाः सर्गा अष्टाधिका इह। नानावृत्तमयः क्वापिसर्गः कश्चन दृश्यते। सर्गान्ते भाविसर्गस्य कथायाःसूचनं भवेत्। सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः। प्रातर्मध्याह्नमृगयाशैलर्त्तुवनसागराः। सम्भोगविप्रलम्भौच मुनिस्वर्गपुराध्वराः। रणप्रयाणोपयममन्त्रपुत्रोदया-दयः। वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह। कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा। नामास्यसर्गोपादेयकथया सर्गनाम तु”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्गबन्ध¦ m. (-न्धः) A principal or great poem, one comprising many Sargas or Cantos. E. सर्ग a section, and बन्ध a binding.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्गबन्ध/ सर्ग--बन्ध m. " chapter-construction " , any poem or composition divided into sections or chapters ( esp. a महा-काव्यor great poem) Ka1vya7d. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=सर्गबन्ध&oldid=405466" इत्यस्माद् प्रतिप्राप्तम्