सर्ज्जरस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्ज्जरसः, पुं, (सर्ज्जस्य रसः ।) शालवृक्षनिर्यासः । धूना इति भाषा । (यथा, महाभारते । १ । १४५ । ९ । “शणसर्ज्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥”) तत्पर्य्यायः । यक्षधूपः २ अरालः ३ सर्व्वरसः ४ बहुरूपः ५ । इत्यमरः । २ । ६ । १२७ ॥ रालः ६ वह्निवल्लभः ७ । इति भरतधृतरभसः ॥ शालजः ८ शालनिर्यासः ९ सर्ज्ज्यः १० धूनकः ११ शाल- सारः १२ । इति रत्नमाला ॥ विरूपः १३ । इति शब्दरत्नावली ॥ शालवेष्टः १४ अग्नि- वल्लभः १५ सर्ज्जमणिः १६ । इति हेमचन्द्रः ॥ राजनिर्घण्टोक्तपर्य्यायगुणौ रालशब्दे द्रष्टव्यौ ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्ज्जरस¦ m. (-सः) Resin in general, or the resinous exudation of the Sa4l tree. E. सर्ज्ज the Sa4l, and रस juice.
