सर्ज्जिकाक्षारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्ज्जिकाक्षारः, पुं, (सर्ज्जिका एव क्षारः ।) यद्बा, सर्ज्जिकाया नद्याः क्षारः । इति भरतः ॥ साचिक्षार इति साजिमाटि इति च भाषा ॥ तत्पर्य्यायः । कापोतः २ सुखवर्च्चकः ३ सौव- र्च्चलम् ४ रुचकम् ५ । इत्यमरः । २ । ९ । १०९ ॥ सृजिकाक्षारः ६ सर्ज्जिका ७ क्षारः ८ । इति तट्टीका । खर्ज्जका ९ स्वर्ज्जिका १० । इति शब्दरत्नावली ॥ सुरवर्च्चकः ११ । इति जटा- धरः ॥ सर्ज्जिक्षारः १२ सर्ज्जिकः १३ सर्ज्जी १४ सुखोर्ज्जिकः १५ सुवर्च्चिकः १६ सुवर्च्ची १७ सुखवर्च्चाः १९ । अस्य गुणाः । पटुत्वम् । कटुत्वम् । उष्णत्वम् । कफवातोदरार्त्तिनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पाक्यक्षारो यवक्षारो यावशूको यवाग्रजः । सर्ज्जिकोऽपि स्मृतः क्षारः कापोतः सुखवर्च्चकः ॥ कथितः सर्ज्जिकाभेदो विशेषज्ञैः सुवर्च्चिका । यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ निहन्ति शूलं वातामश्लेष्मश्वासगलामयान् । पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥ सर्ज्जिकाल्पगुणा तस्माद्बिशेषाद्गुल्मशूलहृत् । सुवर्च्चिका सर्ज्जिकावद्बोद्धच्या गुणतो जनैः ॥” इति भावप्रकाशः ॥
