सर्पसत्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्पसत्रम्, क्ली, (सर्पनाशकं सत्रम् ।) सर्पनाशक- यज्ञविशेषः । यथा, श्रीभागवते । १२ । ६ । १६-२८ । “जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथा जुहाव संक्रद्धः सर्पान् सत्रे सह द्विजैः ॥ सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । दृष्टेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥ अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्बिजान् । उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥ तं गोपायति राजेन्द्र शक्रः शरणमागतम् । तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः । सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ तच्छ्रुत्वा जुहुवुर्व्विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः । बभूव संभ्रान्तमतिः सविमानः सतक्षकः ॥ तं पतन्तं विमानेन सह तक्षकमम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् । अनेन पीतममृतमथवा अजरामरः ॥ जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्म्मणा । राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः । सर्पचौरारिवह्न्यम्बुक्षुत्तृड्व्याध्यादिभिर्नृप । पञ्चत्वमिच्छते जन्तुर्भुङक्त आरब्धकर्म्म तत् ॥ तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् ॥ सर्पा अनागसो दग्धा जनैर्दृष्टं हि भुज्यते ॥ इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः । सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥” (जरत्कारुपुत्त्रस्यास्तीकस्य वचनादेव जनमेजयः सर्पसत्रात् विररामेति पुराणान्तरमतम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्पसत्र¦ न॰ सर्पेण होम्यद्रव्येण तन्नाशनार्थं वा सत्रम्। जनमेजयानुष्ठिते महाभारतप्रसिद्धे सर्पनाशनार्थे यज्ञ-भेदे भा॰ आ॰
५१ अ॰
५८ अ॰ तत्कथा दृश्या।
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
SARPASATRA : See under Janamejaya, Part 5.
_______________________________
*4th word in right half of page 698 (+offset) in original book.
