सामग्री पर जाएँ

सर्व्वंसहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वंसहा, स्त्री, (सर्व्वं सहते इति । सह + “पूः- सर्व्वयोर्दारिसहोः ।” ३ । २ । ४१ । इति खच् । अरुर्द्विषदिति मुम् ।) पृथिवी । इत्यमरः । २ । १ । ३ ॥ (यथा, आर्य्यासप्तशत्याम् । १३९ । “ऊढामुनातिवाहय पृष्ठे लग्नापि कालमच- लापि । सर्व्वं सहे कठोरत्वचः किमङ्केन कमठस्य ॥” राज्ञि, पुं, । इति काशिका ॥ सर्व्वक्लेशादि- सहे, त्रि । यथा, सहित्यदर्पणे । २ । २० । “कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व्वं- सहो वैदेही तु कथं भविष्यति हहा हा देवि ! धीरा भव ॥”)

"https://sa.wiktionary.org/w/index.php?title=सर्व्वंसहा&oldid=175316" इत्यस्माद् प्रतिप्राप्तम्