सर्व्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वः, पुं, (सर्व्वस्मिन् सर्व्वतीति । सर्व्व गतौ + पचा- द्यच् । यद्वा, सृ गतौ + “सर्व्वनिघृष्वेति ।” उणा० १ । १५३ । इति वन्प्रत्ययेन साधुः ।) शिवः । इत्यमरः । १ । १ । ३२ ॥ क्षितिमूर्त्तिरयम् । यथा, विसर्ज्जनात् पूर्व्वं भविष्यपुराणोक्तं स्वभाव- सिद्धप्राच्यैशान्यादिदिक्षु वामावर्त्तेन पूजनम् । यथा, सर्व्वाय क्षितिमूर्त्तये नम इत्यादि तिथ्यादितत्त्वम् ॥ विष्णुः । यथा, -- “असतश्च सतश्चैव सर्व्वस्य प्रभवाव्ययाः । सर्व्वस्य सर्व्वदा ज्ञानात् सर्व्वमेतं पचक्षते ॥” इति विष्णुपुराणम् ॥ विष्णुसहस्रनामस्तोत्रेऽप्येवमेव ॥
सर्व्वः, त्रि, (सृ + वन् ।) सम्पूर्णः । इत्यमरः । ३ । १ । ६४ ॥ अस्य पर्य्यायः सकलशब्दे द्रष्टव्यः । प्रयोगो यथा, -- “सर्व्वरत्नमयो मेरुः सर्व्वाश्चर्य्यमयं नभः । सर्व्वतीर्थमयी गङ्गा सर्व्वदेवमयो हरिः ॥” इति वह्निपुराणे देवाम्बरीषसंवादे २ अध्यायः ॥
