सर्व्वगन्धम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वगन्धम्, क्ली, (सर्व्वे गन्धा यत्रेति ।) चतुर्जात- कादि । यथा, शब्दचन्द्रिकायाम् । “चतुर्जातककक्कोललवङ्गागुरुसिह्लकम् । सर्व्वगन्धमिदं चाग्रं मुनिभिः परिकीर्त्तितम् ॥” अन्यच्च भावप्रकाशे । “चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितञ्चैव सर्व्वगन्धं विनिर्द्दिशेत् ॥” (पुंलिङ्गेऽपि दृश्यते । यथा, बृहत्संहितायाम् । ४८ । ४२ ॥ “रत्नानि सर्व्वगन्धांश्च विल्वञ्च सवितङ्कतम् । प्रशस्तनाम्नश्चौषध्यो हिरण्यं मङ्गलानि च ॥” सर्व्वगन्धविशिष्टे, त्रि । बथा, छान्दोग्योप- निषदि । ३ । १४ । २ । “आकाशात्मा सर्व्वकर्म्मा सर्व्वकामः सर्व्वगन्धः सर्व्वरसः सर्व्वमिदमभ्यात्तोऽवाक्यनादरः ॥”)
